
धनदा यंत्रण
धनदा उवाचा :-
देवी देवमुपाग्म्य नीलकंठ मम प्रियं ।
कृपया पारवती प्राह शंकरं करुणाकरम ॥१॥
देव्युवाचा:-
ब्रूहि वल्लभ साधुनां दरिद्राणां कुटुम्बिनाम।
दरिद्र-दलनोपायम्ञ्जसैव धनाप्रदम॥२॥
पूज्यं पार्वतीवाक्यमिदमाह महेश्वरः ।
शिव उवाचा :-
उचितं जगदाम्बसी तव भुतानुकप्मया ॥३॥
स-सितं सानुजं रामं साञ्जनेयं सहानुमम ।
प्रणम्य परमानान्दम वक्ष्येऽहं स्तोत्र मुत्तमं॥४॥
धनदं श्रद्धाधानानाम सद्यः सुलभकारकम।
योगक्षेमकरं सत्यं सत्यमेव वचो मम॥५॥
पठन्तः पाठ्यन्तोऽपि ब्रह्मणैरास्तिकोत्तमैः।
धनलाभे भावेदाशु नाश्मेति दरिद्रता॥६॥
भुभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम्।
प्रार्थयेत्तां यथाकामं कामधेनु स्वरूपिनीम॥७॥
धनदे धनदे देवी दानशील दयाकरे ।
त्वं प्रसीद महेशानी ! यदर्थ प्रार्थयाम्यहम॥८॥
धराऽमरप्रिये पुण्ये धन्ये धनद पूजिते ।
सुधनं धार्मिके देहि यजमानाय सत्त्वरम ॥९ ॥
रम्ये रुद्रप्रिये रुपे रामारूपे रतिप्रिये ।
शिखीसखमनोमुर्ते प्रसीद प्रणते मयी ॥१०॥
आरत्त - चरणाम्भोजे सिद्धि-सर्वार्थ दायिके।
दिव्याम्बर धरे दिव्ये दिव्यमाल्यानुशोभिते॥११॥
समस्त गुण सम्पन्ने सर्व लक्षण लक्षिते ।
शरच्चंद्रमुखे नीले नील-नीरज-लोचने ॥१२॥
चञ्चरीक-चमू-चारू-श्रीहार-कुटिलालिके ।
मत्ते भगवती मातः कलकण्ठरवामृते॥१३॥
हासाऽवलोकनैद्रिवयैभर्क्तचिन्तापहारिके ।
रूप-लावण्या-तारुण्य-कारुण्य-गुणभाजने ॥१४॥
क्वणत्कङकणमञ्जीरे लसल्लीलाकराम्भूजे।
रूद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥१५॥
प्रत्यक्ष यजमानाय धनं धर्मेकसाधनम।
मातस्त्वं मेंऽविलम्बेन दिशस्व जगदम्बिके ॥१६॥
कृपया करुणागारे प्रार्थितं कुरु में शुभे।
वसुधे वसुधारूपे वसु-वासव-वन्दिते॥१७॥
धनदे यजमानाय वरदे वरदा भव ।
ब्रह्मण्यै र्ब्राह्मणैः पुज्ये पार्वती शिव शंकरे॥१८॥
स्तोत्रं दरिद्रताव्याधिशमनं सुधनाप्रदम।
श्रीकरे शङ्करे श्रीदे प्रसिद मयि किङ्करे॥१९॥
पार्वतीशप्रसादेन सुरेश-किङ्करेरितम।
श्रद्धया ये पठिष्यन्ति पाठिष्यन्ति भक्तितः ॥२०॥
सहस्त्रमयुक्तं लक्षणं धनलाभो भवेद्ध्रुवं ।
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च।
भवन्तु त्वत्प्रसादान्मे धन-धान्यादिसम्पदः ॥२१॥
इति धनदालक्ष्मी स्तोत्रं सम्पूर्णं ॥
No comments:
Post a Comment